|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.79. अध्यायः 079
Mahabharata - Vana Parva - Chapter Topics
युधिष्ठिरेण काम्यकवनमुपागतं नारदंप्रति भूप्रादक्षिण्येन तीर्थयात्राफलप्रश्नः ॥ 1 ॥ नारदेन तत्कथनाय पुलस्त्यभीष्मसंवादानुवादारम्भः ॥ 2 ॥
Mahabharata - Vana Parva - Chapter Text
वैशम्पायन उवाच। 3-79-0x(1981)(18920)
`धनञ्जयोत्सुकास्ते तु वने तस्मिन्महारथाः।
न्यवसन्त महाभागा द्रौपद्या सह कृष्णया' ॥ 3-79-1(18921)
धनं जयोत्सुकानां तु भ्रातॄणां कृष्णया सह।
श्रुत्वा वाक्यानि विमना धर्मराजोप्यजायत ॥ 3-79-2(18922)
अथापश्यन्महात्मानं देवर्षिं तत्र नारदम्।
दीप्यमानं श्रिया ब्राह्म्या दीप्ताग्निसमतेजसम् ॥ 3-79-3(18923)
तमागतमभिप्रेक्ष्य भ्रातृभिः सह धर्मराट्।
प्रत्युत्थाय यथान्यायं पूजां चक्रे महात्मने ॥ 3-79-4(18924)
स तैः परिवृतः श्रीमान्भ्रातृभिः कुरुसत्तमः।
विबभावतिदीप्तौजा देवैरिव शतक्रतुः ॥ 3-79-5(18925)
यथा च वेदान्सावित्री याज्ञसेनी तथा पतीन्।
न जहौ धर्मतः पार्थान्मेरुमर्कप्रभा यथा ॥ 3-79-6(18926)
`अर्ध्यं पाद्यमथानीय त्वभ्यवायदच्युतः।
नारदस्तु महातेजाः स्वस्त्यस्त्वित्यभ्यभाषत ॥ 3-79-7(18927)
ततो युधिष्ठिरो राजा दृष्ट्वा देवर्षिसत्तमम्।
यथार्हं पूजयामास विधिवत्कुरुनन्दनः' ॥ 3-79-8(18928)
प्रतिगृह्य च तां पूजां नारदो भगवानृषिः।
आश्वासयद्धर्मसुतं युक्तरूपमिवानघ ॥ 3-79-9(18929)
उवाच च महात्मानं धर्मराजं युधिष्ठिरम्।
ब्रूहि धर्मभृतां श्रेष्ठ केनार्थः किं ददानि ते ॥ 3-79-10(18930)
अथ धर्मसुतो राजा प्रणम्य भ्रातृभिः सह।
उवाच प्राञ्जलिर्भूत्वा नारदं देवसंमितम् ॥ 3-79-11(18931)
न्वयि तुष्टे महाभाग सर्वलोकाभिपूजिते।
कृतमित्येव मन्येऽहं प्रसादात्तव सुव्रत ॥ 3-79-12(18932)
यदि त्वहमनुग्राह्यो भ्रातृभिः सहितोऽनघ।
संदेहं मे सुनिश्रेष्ठ तत्वतश्छेत्तुमर्हसि ॥ 3-79-13(18933)
प्रदक्षिणां यः कुरुते पृथिवीं तीर्थतत्परः।
किं फलं तस्य कार्त्स्न्येन तद्भवान्वक्तुमर्हति ॥ 3-79-14(18934)
नारद उवाच। 3-79-15x(1982)
शृणु राजन्नवहितो यथा भीष्मेण धीमता।
पुलस्त्यस्य सकाशाद्वै सर्वमेतदुपश्रुतम् ॥ 3-79-15(18935)
पुरा भागीरथीतीरे भीष्मो धर्मभृतांवरः।
पित्र्यं व्रतं समास्थाय न्यवसन्मुनिभिः सह ॥ 3-79-16(18936)
शुभे देशे तथा राजन्पुण्ये देवर्षिसेविते।
गङ्गाद्वारे महाभाग देवगन्धर्वसेविते ॥ 3-79-17(18937)
स पितॄंस्तर्पयामास देवांश्च परमद्युतिः।
ऋषींश्च तर्पयामास विधिदृष्टेन कर्मणा ॥ 3-79-18(18938)
कस्य चित्त्वथ कालस्य जपन्नेव महायशाः।
ददर्शाद्भुतसंकाशं पुलस्त्यमृषिसत्तमम् ॥ 3-79-19(18939)
स तं दृष्ट्वोग्रतपसं दीप्यमानमिव श्रिया।
प्रहर्षमतुलं लेभे विस्मयं परमं ययौ ॥ 3-79-20(18940)
उपस्थितं महाभागं पूजयामास भारत।
भीष्मो धर्मभृतां श्रेष्ठो विधिदृष्टेन कर्मणा ॥ 3-79-21(18941)
शिरसा चाघमादाय शुचिः प्रयतमानसः।
नाम संकीर्तयामास तस्मिन्ब्रह्मर्षिसत्तमे ॥ 3-79-22(18942)
भीष्मोऽहमस्मि भद्रं ते दासोऽस्मि तव सुव्रत।
तव संदर्शनादेव मुक्तोऽहं सर्वकिल्वपैः ॥ 3-79-23(18943)
रएवमुक्त्वा महाराज भीष्मो धर्मभृतांवरः।
वाग्यतः प्राञ्जलिर्भूत्वातूष्णीमासीद्युधिष्ठिर ॥ 3-79-24(18944)
तं दृष्ट्वा नियमेनाथ स्वाध्यायाम्नायकर्शितम्।
भीष्मं कुरुकुलश्रेष्ठं मुनिः प्रीतमनाऽभवत् ॥ 3-79-25(18945)
`ततः स मधुरेणाथ स्वरेण सुमहातपाः।
उवाच वाक्यं धर्मज्ञः पुलस्त्यः प्रीतमानसः' ॥ 3-79-26(18946)
इति श्रीमन्माहाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि एकोनाशीतितमोऽध्यायः ॥ 79 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|